त्रैलोक्य मोहन काली कवचम् | Trilokya Mohan Kali Kavacham

kali

श्रीगणेशाय नमः

श्रीदेव्युवाच

देवदेवमहादेव संसारप्रीतिकारकः ।

सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥ १॥

श्रीशिव उवाच

श‍ृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।

सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥

यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः ।

बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥ ३॥

शचीस्वामीदेवनाथो यमोपिधर्मनायकः ।

त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥

दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।

जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥ ५॥

अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः ।

वागीश्वरः सुराचार्यो गुरुः कविः ॥ ६॥

एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।

तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥ ७॥

अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः ,

अनुष्टुप् छन्दः , श्मशानकाली देवता ,

धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

ललाटं पातु चक्रीं मे हरेणाराधितं सदा ।

नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥

क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।

क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥

क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता ।

क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥ १०॥

दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।

भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥

ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ

ह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥ १२॥

कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहा

मम चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥ १३॥

हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा

सौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥ १४॥

Kali Mata

ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा ।

सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥

ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु ।

वायुनोपासिताकाली यशोबल सुखप्रदा ॥ १६॥

क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम ।

सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥

क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु ।

सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥

लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ।

शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥ १९॥

पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।

धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥ २०॥

पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा ।

द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥ २१॥

जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।

एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥

क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतु

द्वादशीच महाविद्या प्रह्लादेनचसेविता ॥ २३॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः

पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥ २४॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा

च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥ २५॥

क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके

क्रीं क्रीं क्रीं मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २६॥

क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।

मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥ २७॥

क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ।

ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥ २८॥

द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।

महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ २९॥

सूर्यवंशेन सोमेन रामेणजग्निना ।

जयन्ते न सुमन्ते न बलिनानारदेन च ॥ ३०॥

बिभीषणेनबाणेन भृगुणाकश्यपेन च ।

कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३१॥

मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ।

ऋष्यश‍ृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३२॥

सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी ।

पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३३॥

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।

विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥ ३४॥

नीला घना बलाका च मात्रा मुद्रामितापि च ।

एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥ ३५॥

हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ।

ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥ ३६॥

माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा ।

कौमारी वारुणे पातु वायव्ये अपराजिता ॥ ३७॥

वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका ।

अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥ ३८॥

जलेस्थले च पाताले शयने भोजनेगृहे

राजस्थाने कानने च विवादे मरणे रणे ॥ ३९॥

पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।

शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४०॥

यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका ।

नक्षत्र तिथि वारेषु योगं करणयोरपि ॥ ४१॥

मासे पक्षे वत्सरे च दण्डेयामेनिमेषके ।

दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४२॥

सर्वत्र कालिका पातु कालिका पातु सर्वदा ।

सकृद्यः श‍ृणुयानित्यं कवचं शिव निर्मितम् ॥ ४३॥

सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् ।

त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४४॥

यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः ।

सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४५॥

कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।

कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥ ४६॥

कामदेव समोरूपे वायुतुल्यः पराक्रमे ।

महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४७॥

बृहस्पतिसमोधीमां जरामृत्युविवर्जितः ।

सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥ ४८॥

अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः ।

यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ४९॥

न शोकोनभय क्लेशो न रोगोन पराजयः ।

धनहानिर्विषादोय परिवारोभवेन्नहि ॥ ५०॥

सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनम् ।

ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥ ५१॥

तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ।

ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५२॥

सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।

तद्देहं न दहेदग्नि न तापयतिभास्करः ॥ ५३॥

न शोषयति वातोऽपि न क्लेदं कुरुतेपयः ।

पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५४॥

जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः ।

बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥ ५५॥

राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।

मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥ ५६॥

काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका ।

कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५७॥

तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।

स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥ ५८॥

इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् ।

ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ५९॥

पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् ।

इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६०॥

गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।

तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६१॥

य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् ।

भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥ ६२॥

॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥

Louis Jones

Louis Jones

Leave a Reply

Your email address will not be published. Required fields are marked *